________________
* श्रीगणेशायनमः *
अथमार्गशीर्ष माहात्म्यारम्भः
प्रथमोऽध्यायः गोपीकृतमार्गशीर्षस्नानकथनम्
सूत उवाच
देवकीनन्दनं कृष्णं जगदानन्दकारकम् । भुक्तिमुक्तिप्रदं वन्दे माधवं भक्तवत्सलम् ॥ श्वेतद्वीपे सुखासीनं देवदेवं रमापतिम् । चतुर्वक्त्रो नमस्कृत्य पप्रच्छ पितरन्तदा || ब्रह्मोवाच
हमीकेश ! जगद्धातः ! पुण्यश्रवणकीर्तन ! | पृष्टं यद्ब्रूहि देवेश ! सर्वज्ञ सकलेश्वर ! ॥३॥ मासानां मार्गशीर्षोऽहमित्युक्तं भवता पुरा ।
तस्य मासस्य माहात्म्यं ज्ञातुमिच्छामि तत्त्वतः ॥ ४ ॥
को देवस्तस्य किंदानंकथं स्नानं विधिश्च कः । पुरुषैस्तत्र किं कार्यं भोक्तव्यं किरमापते ! वक्तव्यं किंतथा पूजाध्यानमन्त्रादिकञ्चयत् । तत्र यत्क्रियते कर्म तत्सर्वम्ब्रूहि मेऽच्युत श्रीभगवानुवाच
साधुपृष्टं त्वया ब्रह्मन्सर्वलोकोपकारिणा । यस्मिन्कृतेकृतं सर्वमिष्टापूर्वादिकम्भवेत् सर्वयज्ञेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् । तत्फलं समवाप्नो मार्गशीर्षे कृते सुत ! ॥८ तुलापुरुषदानाद्यैर्यत्फलं लभते नरः । तत्फलम्प्राप्यते पुत्र ! माहात्म्यश्रवणात्किल ॥ यज्ञाध्ययनदानाद्यैः सर्वतीर्थावगाहनैः । सन्न्यासेन च योगेननाऽहंचश्योऽभवं नृणाम् स्नानेन दानेन च पूजनेन ध्यानेन मौनेन जपादिभिश्च ।